|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.320. अध्यायः 320
Mahabharata - Shanti Parva - Chapter Topics
याज्ञवल्क्येन जनकंप्रति साङ्ख्यदर्शनकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
याज्ञवल्क्य उवाच। 12-320-0x(6512)(78318)
न शक्यो निर्गुणस्तात गुणीकर्तुं विशांपते।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे॥ 12-320-1(78319)
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः॥ 12-320-2(78320)
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः॥ 12-320-3(78321)
अव्यक्तस्तु न जानीते पुरुषोऽज्ञः स्वभावतः।
न मत्तः परमोस्तीति नित्यमेवाभिमन्यते॥ 12-320-4(78322)
अनेन कारणेनैतदव्यक्तं स्यादचेतनम्।
नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा॥ 12-320-5(78323)
यदाऽज्ञानेन कुर्वीत गुणसर्गं पुनःपुनः।
यदात्मानं न जानीते तदाऽऽत्मापि न मुच्यते॥ 12-320-6(78324)
कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते।
कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते॥ 12-320-7(78325)
कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मिता॥ 12-320-8(78326)
कर्तृत्वाच्चापि वीजानां बीजधर्मा तथोच्यते।
गुणानां प्रसवत्वाच्च प्रलयत्वात्तथैव च॥ 12-320-9(78327)
`कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च।
कर्तृत्वात्प्रभवाणां च तथा प्रभवधर्मि च॥ 12-320-10(78328)
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च।'
उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम्॥ 12-320-11(78329)
मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः।
अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम॥ 12-320-12(78330)
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषास्तथा।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः॥ 12-320-13(78331)
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः।
यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते।
`न चैव मुञ्जसंयोगादिषीका तत्र बुध्यते॥' 12-320-14(78332)
अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा।
च चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते॥ 12-320-15(78333)
अन्य एव तथा मत्स्यस्तदन्यदुदुकं स्मृतम्।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः॥ 12-320-16(78334)
अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः।
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै॥ 12-320-17(78335)
पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम्।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्॥ 12-320-18(78336)
एतेषां सहवासं च निवासं चैव नित्यशः।
याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः॥ 12-320-19(78337)
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम्।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः॥ 12-320-20(78338)
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यानमुत्तमम्।
एवं हि परिसंख्याय साङ्ख्याः केवलतां गताः॥ 12-320-21(78339)
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्।
अतः परं प्रवक्ष्यामि योगानामनुदर्शनम्॥ ॥ 12-320-22(78340)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकत्रिशततमोऽध्यायः॥ 320॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-320-3 गुणाम्नैवातिवर्तत इति झ. पाठः॥ 12-320-5 यदज्ञानेन कुरुते निर्गुणः सगुणः पुनरिति ड. पाठः॥ 12-320-6 यदज्ञानं न जानीषे तदित्यव्यक्तमुच्यत इति थ. पाठः॥ 12-320-7 कर्तृत्वाच्चैव धर्माणामिति ट. पाठः। कर्तृत्वाच्चापि योनीनां योनिधर्मेत्यथोच्यत इति ट. ड. पाठः॥ 12-320-17 उखा मृत्पात्रविशेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|